|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.22. अध्यायः 022
Mahabharata - Bhishma Parva - Chapter Topics
युधिष्ठिरादीनां युद्धाय निर्गमः ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच।
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ 6-22-1(39404)
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाःक ।
स्वर्गं परममिच्छन्तः सुयुद्धेन कुरूद्वहाः ॥ 6-22-2(39405)
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ।
धृष्टद्युम्नश्चरन्नग्रे भीमसेनेन पालितः ॥ 6-22-3(39406)
अनीकं दक्षिणं राजन्युयुधानेन पालितम् ।
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ 6-22-4(39407)
महेन्द्रयानप्रतिमं रथं तु
सोपस्करं हाटकरत्नचित्रम्।
युधिष्ठिरः काञ्चनभाण्डयोक्रं
समास्थितो नागबलस्य मध्ये ॥ 6-22-5(39408)
समुच्छ्रितं दन्तशलाकमस्य
सुपाण्डुरं छत्रमतीव भाति।
प्रदक्षिणं चैनमुपाचरन्त
महर्षयः संस्तुतिभिर्महेन्द्रम् ॥ 6-22-6(39409)
पुरोहिताः शत्रुवधं वदन्तो
ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम् ।
जप्यैश्च मन्त्रैश्च महौषधीभिः
समन्ततः स्वस्त्ययनं ब्रुवन्तः ॥ 6-22-7(39410)
ततः स वस्त्राणि तथैव गाश्च
फलानि पुष्पाणि तथैव निष्कान् ।
कुरूत्तमो ब्राह्मणसान्महात्मा
कुर्वन्ययौ शक्र इवामरेशः ॥ 6-22-8(39411)
सहस्रसूर्यः शतकिङ्किणीकः
परार्ध्यजाम्बूनदहेमचित्रः।
रथोऽर्जुनस्याग्निरिवार्चिमाली
विभ्राजते श्वेतहयः सुचक्रः ॥ 6-22-9(39412)
तमास्थितः केशवसंगृहीतं
कपिध्वजो गाण्डिवबाणपाणिः।
धनुर्धरो यस्य समः पृथिव्यां
न विद्यते नो भविता कदाचित् ॥ 6-22-10(39413)
उद्धर्तयिष्यंस्तव पुत्रसेना-
मतीव रौद्रं स बिभर्ति रूपम् ।
अनायुधो यः सुभुजो भुजाभ्यां
नराश्वनागान्युधि भस्म कुर्यात्॥ 6-22-11(39414)
स भीमसेनः सहितो यमाभ्यां
वृकोदरो वीररथस्य गोप्ता ।
तं तत्र सिंहर्षभमत्तखेलं
लोके महेन्द्रप्रतिमानकल्पम् ॥ 6-22-12(39415)
समीक्ष्य सेनाग्रगतं दुरासदं
संविव्यथुः पङ्कगता यथा द्विपाः ।
वृकोदरं वारणाजदर्पं
योधास्त्वदीया भयविग्नसत्त्वाः ॥ 6-22-13(39416)
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् ।
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ 6-22-14(39417)
वासुदेव उवाच। 6-22-15x(3998)
य एष रोषात्प्रतपन्बलस्थो
यो नः सेनां सिंह इवेक्षते च।
स एष भीष्मः कुरुवंशकेतु-
र्येनाहृतास्त्रिशतं वाजिमेधाः ॥ 6-22-15(39418)
एतान्यनीकानि महानुभावं
गूहन्ति मेघा इव रश्मिमन्तम्।
एतानि हत्वा पुरुषप्रवीर
काङ्क्षस्व युद्धं भरतर्षभेण ॥ ॥ 6-22-16(39419)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वाविंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-22-9 सहस्रं सूर्यतुल्यान्यादर्शचक्राणि यस्मिन्स सहस्रसूर्यः ॥ 6-22-16 गूहन्ति परिवारयन्ति ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|